Posts

  पीताम्बरोपनिषत् ॐअथ हैनां ब्रह्मरन्ध्रे सुभगां ब्रह्मास्त्रत्वरूपिणीमाप्नोति । ब्रह्मास्त्रां महाविद्यां शाम्भवीं सर्वस्तम्भकरीं सिद्धां चतुर्भुजां दक्षाभ्यां कराभ्यां मुद्गरपाशै वामाभ्यां शत्रुजिह्नावज्रे दधानां पतिवाससं पीतालङ्कारसम्पन्ना दृढीभूतपीनोन्नतपयोधरयुग्माढ्यां तप्तकार्तस्वरकुण्डलद्वयविराजितमुखाम्भोजां ललाटपट्टोल्लसत्पीतचन्द्रार्धमनुबिभ्रतीमुद्यद्दिवाकरोद्योतां स्वर्णसिंहासनमध्यकमलसंस्थां धिया सञ्चिन्त्य तदुपरि त्रिकोणषट्कोणवसुपत्रवृत्तान्तः षोडशदलकमलोपरि भूबिम्बत्रयमनुसन्धाय तत्राद्ययोन्यन्तरे देवीमाहूय ध्यायेत् । योनिं जगद्योनिं समायमुच्चार्य शिवाते भूमाग्रबिन्दुमिन्दुखण्डमग्निबीजं ततो वरुणाङ्कगुणार्णमत्रियुतं स्थिरामुखि इति सम्बोध्य सर्वदुष्टानामिदं चाभाष्य वाचमिति मुखमिति पदमिति स्तम्भयेति वोच्चार्य जिह्वां वैशारदी कीलयेति बुद्धिं विनाशयेति प्रोच्चार्य भूमायां वेदाद्यं ततो यज्ञभूगुहायां योजयेत् । स महास्तम्भेश्वरः सर्वेश्वरः । स मेनास्तम्भं करोति । किं बहुना विवस्वद्धृतिस्तम्भकर्ता सर्ववातस्तम्भकर्तेति । किं दिवाकर्षयति । स सर्वविद्येश्वरः सर्वमन्त्रेश्वरो भूत्वा पूज